________________
विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः १ ॥ १ ॥” सम्यग्दृष्टयस्तुपहतनयना द्रव्यान्धाः, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च- "जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ १ ॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोद्यात्कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ? ॥ २ ॥” एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफल क्रियानुष्ठानशून्यतां बिभर्त्ति इति उक्तं च – “धर्म श्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो ? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? ॥ १ ॥ स्वकलत्रचालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतका कृतिधरस्य ? ॥ २ ॥” एवं मूकत्वमप्येकान्तेन दुःखावहं परिसंवेदयते, उक्तं च - " दुःख कर मकीर्त्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्म्मकृतं किं न पश्यन्ति १ ॥ १ ॥” तथा काणत्वमप्येवंरूपमिति, आह च - "काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकर्म्मलिखितोऽपि किमु स्वरूपः १ ॥ १॥" एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्वं' वामनलक्षणं 'वडभत्वं' विनिर्गत पृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णलक्षणं 'शबलत्वं' श्वित्रलक्षणं सहजं पश्चाद्भावि वा कर्म्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च-सह 'प्रमादेन' विषय क्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन 'अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनीः 'संदधाति' संधत्ते