SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ११९ ॥ अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति - "पुरिसेणं खलु दुक्खुब्वेअसुहेसए" 'पुरुषो' जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणे दुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्वासौ सुखैषकश्च दुःखोद्वेगसुखै-षकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकलपञ्चेन्द्रियसंज्ञी तर पर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीर्षूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहात्रतेष्वास्थेयः, तसरिपालनार्थ चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते - 'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत् - शुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहीति सण्टङ्कः, तत्र 'समिति' रिति 'इण् गता' वित्यस्मात्सपूर्वात् किन्नन्ताद्भवति, सा च पश्चधा, तद्यथा-इर्याभाषैषणाऽऽदान निक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणत्रतपरिपालनाय, भाषासमितिर सदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयत्रत परिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा यदनुदर्श्यसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएइ' संसारोदरे पर्यटन् प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते स चान्धो द्रव्यतो भावतश्च तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः, उक्तं च - " एकं हि चक्षुरमलं सहजो | लोक.वि. २ उद्देशकः ३ ॥ ११९ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy