________________
श्रीआचारावृत्तिः (शी०)
॥११५॥
ACA%AARAKASAKASH
समादानकारणमुपन्यस्तम् , आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति-पावमोक्खो'त्ति लोक.वि.२ इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेती, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्तत इति, तथाहि-हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वं
उद्देशका २ सनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युदाहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः प्राण्युपपातकारिणीः समारभमाणाः अनेकभवशतकोटीदुर्मोचमघमेवोपाददत इति । किश्च अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् , अथवा आशंसनम् आशंसा-अप्राप्तप्रापणाभिलाषस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुपरारि वा प्रेत्य वोपस्थास्यते इत्याश-10 सया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च-"आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसाना, कालः प्रयाति मरणावधिरेव पुंसाम् ॥१॥ एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः, क्रीडन्ति धनिनोऽथिभिः ॥२॥" इत्यादि ॥ तदेवं । ज्ञात्वा किं कर्त्तव्यमित्याह
॥११५॥ तं परिण्णाय मेहावी नेव सयं एएहिं कजेहिं दंडं समारंभिजा नेव अन्नं एएहिं
पण 'अदुवा' इत्यादि, पाण्युपपातकारिणी समजते, तदेवं नामाला वस्तादिमांसोपस्कृतभा, राजानं वाऽर्थाशासमादानमादत्ते, तथाहि मानो दण्डमादत्त इत्युक्तम, काटीदुम्र्मोचमघमेवो