________________
लोभन अगुपचाप्रत्युपेक्षा परितप्यमानकारिणि पौनायतास्ता क्रिया
लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि पश्यति, अपश्यश्चाप्रत्युपेक्षणयाऽभिकायति। यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचितच्च वाच्यमिति, आह च-'अहो य राओं' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र-शस्त्रे पृथिवीकायाद्युपघातकारिणि पौनःपुन्येन वर्तते । किं च-'से आयबले' आत्मनो बलं-शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि-18 'मांसेन पुष्यते मांस'मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्त्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिबलं' स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तस्रत्यबलं भविव्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥" एतदुक्तं भवति-तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः 'विरूपरूपैः'नानाप्रकारैः पिण्डदानादिभिः कार्यैः 'दण्डसमादान'मिति | दण्ड्यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतन्नाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्ड
भा. सू. २०