________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ११४ ॥
विणावि लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावर्कखइ, एस अणगारिति पञ्च, अहो य राओ परितप्पमाणे कालाकालसमुट्ठाइ संजोगट्ठी अट्ठालोभी आलूंपे सहसक्कारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिच्चबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इच्चेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए (सू०७५ )
कश्चिद्भरतादिनिःशेषतो लोभापगमाद्विनापि लोभं 'निष्क्रम्य' प्रव्रज्यां प्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभं' सवलनसंज्ञकमपि लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा' अपगतघातिकर्म्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति - एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं घातिकर्म्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकम्मपगम इत्यतो लोभापगमे अकर्मेत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं कर्मक्षयस्ततः किं कर्त्तव्यमित्याह - 'पडिलेहाए' इत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालोचनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणं च लोभं 'नावकाङ्क्षति' नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकषायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्व संतिष्ठते, तथाहि - अलोभं
लोक. वि. २
उद्देशकः २
॥ ११४ ॥