SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ वृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार. इति, भवति हि तादर्थ्यात्ताच्छब्धं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पार-ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह-'लोभ' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभ, तद्विपक्षेण अलोभेन 'जुगुप्समानों निन्दन्परिहरन् किं करोतीत्याह-लद्धे' इत्यादि, 'लब्धान् प्राप्तानिच्छामदनरूपान् कामान् 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्या|गेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेत्याद्यप्याकायोज्यं, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यहू विचाररहितः सन्नर्थंकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्-"धांवेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवंपिहु पुरिसो जो होइ धणलुद्धो ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिहो । कुलसीलजाइपच्चयधिई च लोभहुओ चयइ ॥२॥" इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभा-3 दिना निष्कम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति १ धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुशेषु । मारयति बान्धवमपि पुरुषो यो भवति धनलुब्धः ॥७॥ अटति बहु वहति भारं सहते क्षुधा पापमाचरति भ्रष्टः । कुलशीलजातिप्रसयधृतीच लोभाभिद्वतस्त्यजति ॥ २ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy