________________
कजेहिं दंडं समारंभाविजा एएहिं कज्जेहिं दंडं समारंभंतपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि तिबेमि (सू०७६)
लोगविजयस्स बितिओ उद्देसो ॥२॥ 'तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम्, इह वा यदुक्तम् | |अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणा|दिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्या
दावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः-आत्मबलाधानादिकैः S'कार्यैः कर्त्तव्यैः समुपस्थितैः सद्भिः 'दण्ड' सत्त्वोपघातं समारभेत्, नाप्यन्यमपरमेभिः काहिसानृतादिकं दण्ड समारम्भयेत् , तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेत् । एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति-'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गों योगत्रिककरणत्रिकेण| दण्डसमादानपरिहारलक्षणो वा 'आयः' आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-संसारार्णवतटवर्तिनः क्षीणघातिकमौशाः संसारोदरविवरवर्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षण वेदितः कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्ग ज्ञात्वा किं कर्तव्य