SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ त्वनचासावश्चायतमावतमणिवज्ञानानां वाइवा तेन वा SROCENCECCESCRCANCE यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघाणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः' इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृप्टैानैरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ! इत्याह-'आयई' इत्यादि, आत्मनोऽर्थ आत्मार्थः, सच ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं-प्रयोजनमात्मार्थ, तच्च चारित्रानुष्ठानमेव, अथवा आयतःअपर्यवसानान्मोक्ष एव, स चासावर्थश्चायतार्थोऽतस्तं, यदि वाऽऽयत्तो-मोक्षः अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा | 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्ताल्लिट्सिप् सं-सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिकान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वाऽ प्रहीणतामधिगम्य तत आत्मार्थ 'समनुवासयेः' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम'इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं 'समनुवासयेद्'भावयेद्रञ्जयेत्, आयतार्थ वा मोक्षाख्यं सम्यग्-अपुनरागमनेनान्विति-यथोकानुष्ठानात्पश्चादात्मना 'समनुवासयेद्'अधिष्ठापयेद् । 'इतिः' परिसमाप्ती, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । द्वितीयाध्ययनस्य प्रथम उद्देशकः समाप्तः॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy