________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः२
॥१११॥
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राभिरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराद्यनभिभूतचेतसाऽऽत्मार्थः-संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् , इहापि तस्मिनेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद् , अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवे|दित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कर्मापहीयते तथा |अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह
अरइं आउद्दे से मेहावी, खणसि मुके (सू०७२) अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-'आयह समणुवासेज्जासि' आत्मार्थं संयम सम्यक्तया कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह-'अरई, इत्यादि, परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेणं भगवया एवमक्खाय' किं तच्छुतमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषाया| भिष्वङ्गजनितां मातापितृकलत्राद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्तेत अपवसेत निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्कं भवति-विषयाभिष्वङ्गे रति निवर्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्त
॥१११॥