________________
श्रीआचा राङ्गवृत्तिः
(शी० )
॥ ११० ॥
शुभानि बनन्ति, तमतमानारकास्तु तिर्यग्गत्यानुपूर्वार्द्धयनीचैर्गोत्र सहिता नीति, तदध्यवसायोपपन्नः सन्नायुष्कमबभन् यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवामोति, तत ऊर्द्ध क्रमेण क्षीयमाणे कर्म्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति । नोकर्म्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाध्यवसर इति, आलस्यादिभिस्तुपहतो लब्ध्वाऽपि संसारलङ्घनक्षमं मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च- "आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥ १॥ एहिं कारणेहिं लद्भूण सुदुल्लाहंपि माणुस्सं । न लहइ सुई हिअकरिं संसारुत्तारणि जीवो ॥२॥” तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा - द्रव्यक्षणो जङ्गमत्वादिविशिष्टं मनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्रं कालक्षणो | धर्म्मचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमवाप्यात्मार्थं समनुवासयेदित्युत्तरेण सम्बन्धः । किं चजाव सोयपरिण्णाणा अपरिहीणा नेत्तपरिण्णाणा अपरिहीणा घाणपरिण्णाणा अपरिहीणा जी परिणाणा फरि०, इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयट्टं (संमं) समणुवासिज्जासि ( सू० ७१) तिबेमि ॥ प्रथमोद्देशः ॥
१ आलस्यं मोहोऽवर्णः स्तम्भः क्रोधः प्रमादः कृपणता भयशोकी अज्ञानं विक्षेषः कौतूहलं रमणम् ॥ १ ॥ एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यं । न लभते श्रुतिं हितकरी संसारोत्तारिणीं जीवः ॥ २ ॥
लोक. वि. २
उद्देशकः १
॥ ११० ॥