________________
| तिसृषु समासु सुषमदुष्षमा दुष्षमं सुषमादुष्षमाख्यासु उत्सर्पिण्यां तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्द्धाधोलोके सर्वासु च समासु द्रष्टव्याः, भावक्षणस्तु द्वेधा-कर्म्मभावक्षणो नोकर्म्मभावक्षणश्च तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तस्मौहूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, स चोत्कृष्टतो | देशोनां पूर्वकोटिं यावदवगन्तव्यः, सम्यक्त्वक्षणस्त्व जघन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य, शेषाणां तु कर्म्मणां पल्योपमासङ्ख्येयभागन्यूनान्तः सागरोपमकोटिकोटीस्थितिकस्य जन्तोर्भवति, स चानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्ध्या विशुद्ध्यमानो मतिश्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन् बभ्रंश्च ध्रुवप्रकृतीः परिवर्त्तमानाश्च भवप्रायोग्या बनन्निति, ध्रुवकर्म्मप्रकृतयश्चेमाः - पञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कपायषोडशकं भयं जुगुप्सा | तैजसकार्मणशरीरे वर्णगन्धरसस्पर्शागुरुलधूपघातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमं सम्यक्त्वमुत्पादयन्नेता एकविंशतिः (म् ) परिवर्त्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्र संस्थानपराघातोच्छ्वासप्रशस्तविहायोगतिप्रशस्तत्रसादिदशक सातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथम संहननसहितानि