________________
भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तं च-"न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्तते जनो, धुवमायाति परां विडम्बनाम् ॥१॥'ज करेइ तं तं न सोहए जोव्वणे अतिक्कते । पुरिसस्स महिलियाइ व एक्कं धर्म पमुत्तूणं ॥ २॥" गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमा
यए वओ अच्चेति जोव्वणं व (सू० ६५) अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह-'इच्चेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणिनामित्येवं मत्वा समुत्थितः-सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्युत्तरेण सण्टङ्कः, किंच-'अंतरं चे'त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकं, चः समुच्चये, खल्लु
१ यद्यत्करोति तत्तन्न शोभते यौवनेऽतिकान्ते । पुरुषस्य महिलाया वा एक धर्म प्रमुच्य ॥ २॥