SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १०६ ॥ हसते वक्रं व लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १ ॥ " इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरंक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराज|र्जरित देहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिंद्यमानार्थतया तानसाववगायति - परिभवतीत्यर्थः । येsपि पूर्वकृतधर्म्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुः खापनयनसमर्था न भवन्ति, आह च- 'नाल' मित्यादि, नालंन समर्थाः ते - पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं लवमासाद्यापस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति - जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च- “ जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ १ ॥" इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह - 'से ण हस्साए' इत्यादि, 'स' जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनैः - किं | किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै न च लङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै | भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते - न लज्जते १ तद्व्यतिरिक्त० प्र० २ विद्यमाना० प्र० लोक. वि. २ उद्देशकः१ ॥ १०६ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy