________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः१
॥१०७॥
रवधारणे, 'इम'मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयतेतवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य'पर्यालोच्य धीरः सन्मुहूर्तमप्येक नो 'प्रमादयेत्' प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तमौहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम् , अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यं, तदुक्तम्-"सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? ॥१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥२॥” इत्यादि, किमर्थं च नो प्रमादयेदित्याह-'यो अच्चेईत्ति, वयः-कुमारादि अत्येति-अतीव एति-याति अत्येति, अन्यच्च-'जोव्वणं व'त्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थ, धर्मार्थकामानां तन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च-"नइवेगसमं चवलं च जीवियं जोब्वणं च कुसुमसमं । सोक्खं च ज अणिचं तिण्णिवि तुरमाणभोज्जाई ॥१॥" तदेवं मत्वा अहोविहारायोस्थानं श्रेय इति ॥ ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवन्तित्याह
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लंपित्ता विलंपित्ता उद्दवित्ता उत्तासइत्ता,
KAUHUSUSANAASAASAS
१०७॥
१ नदीवेगसमं चपलमेव जीवितं यौवनं च कुसुमसमम् । सौख्यं च यदनित्यं त्रीण्यपि त्वरमाणभोज्यानि ॥१॥ .