________________
%%%%%
| जघन्यतस्त्वङ्गुलासङ्ख्येयभागविषयत्वं सर्वेषाम् अत्र च 'सोयपरिण्णाणेहिं परिहायमाणेही' त्यादि य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः - इह संज्ञिनः पश्ञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह - 'अभिकंत' मित्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिकंतं च खलु वयं स पेहाए' तत्र | प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसि - कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च - " प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥ १ ॥ तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि - कौमारयौवनस्थविरत्वभेदाद्, उक्तं च — “पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यम| र्हति ॥ १ ॥" अन्यथा वा त्रीणि वयांसि, बालमध्यवृद्धत्वभेदात् उक्तं च- आषोडशाद्भवेद्वालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥ १ ॥” एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्माणरसनस्पर्शन विज्ञानैर्व्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मौढ्यमापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेण - अत्यर्थ मौढ्यमापद्यत इति, आह च- 'ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयाद्व योऽतिक्रमणाद्वा स इति प्राणी 'एकदे 'ति वृद्धाव१ चक्षुषः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्यमुक्तं.