________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १०४ ॥
यलब्धिमान् आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्तिं निर्वर्त्तयति, तदनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्तिं, ततोऽपीन्द्रियपर्याप्तिं तावतैव कालेन, तानि च पञ्चेन्द्रियाणि-स्पर्शनरसनम्राणचक्षुः श्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येकं द्विविधानीति, तत्र द्रव्येन्द्रियं निर्वृत्त्युपकरणभेदात् द्विधा, निर्वृत्तिरप्यान्तरबाह्यभेदात् द्विधैव, निर्वर्त्यत इति निवृत्तिः, केन निर्वर्त्यते ?, कर्म्मणा, तत्रोत्सेधाङ्गुला सङ्ख्येय भाग प्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रि यसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निर्वृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो निर्मानाम्ना पुद्गलविपाकिना वर्द्धकिसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति बाह्या निर्वृत्तिः, तस्या एव निर्वृत्तेर्द्विरूपायाः येनोपकारः क्रियते तदुपकरणं, तच्चेन्द्रियकार्यसमर्थ, सत्यामपि निर्वृत्तावनुपहतायां मसूराकृतिरूपायां निर्वृत्तौ तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधा, तत्राभ्यन्तरमक्ष्णस्तावत् कृष्णशुक्लमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति, भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिज्ञानदर्शनावरणीय क्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तावुपकरणोपयोगी, सत्युपकरण उपयोग इति एतेषां च श्रोत्रादीनां कदम्बकमसूर कलम्बुका पुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, | विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति,
लोक.वि. २
उद्देशकः १
॥ १०४ ॥