________________
लोक.वि.२
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः१
॥१०५॥
CASSAGARLS ARASAAAAAAAG
स्थायां मूढभावो मूढत्वं-किंकर्त्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति ॥ स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह
जेहिं वा सद्धिं संवसति ते विणं एगदा णियगा पुट्विं परिवयंति, सोऽवि ते णियए पच्छा परिवएज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए
वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए (सू० ६४) वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलत्रादिभिः 'सार्द्ध' सह संवसति, त एव भार्यापुत्रादयो णमिति वाक्यालङ्कारे 'एकदें ति वृद्धावस्थायां 'नियगा' आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषिताः ते तं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च-"वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? |॥१॥" गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थों बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम्-कौशाम्ब्यां नगर्या अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाद्वृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनो
॥१०५॥