________________
लोक.वि.२ उद्देशकः१
श्रीआचा- सन् पृथिवीकायादिजन्तूना यच्छस्त्रम्-उपघातकारि तत्र पुनः पुनः प्रवर्त्तते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि राङ्गवृत्तिः ||४|| पृथिवीकायादिजन्तूनामुपघाते वर्तते, तथाहि-शसु हिंसाया'मित्यस्माच्छस्यते हिंस्यत इति करणे ष्ट्रन्विहितः, तच्च (शी०) स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्थ सत्ते पुणो पुणो,' 'अत्र' मातापितृशब्दादिसंयोगे लोभार्थी सन् ॥१०२॥
'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात् , तच्चोभयमपि नास्तीत्याह–'अप्पं च' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्मपुद्गलाः 'इहे'ति संसारे मनुष्यभवे वा 'एकेषां' केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु-इह अस्मिन् संसारे केषाश्चिन्मनुजानां क्षुल्लकभवो|पलक्षितान्तर्मुहूर्त्तमात्रमल्पं-स्तोकमायुर्भवति, चशब्दादुत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति, तथाहि-अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कं, तच्चाल्पमे-| वेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तते, उक्तं च-"अद्धा जोगुक्कोसे बंधित्ता भोगभूमिएसु लहुँ । सबप्पजीवियं वजइत्तु उवट्टिया दोण्हं ॥१॥" अस्या अयमर्थः-उत्कृष्टे योगे-वन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धा, क्व?–भोगभूमिकेषु' देवकुर्बादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वजयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरपवृत्तिका-अपवर्तनं भवति,एतच्चापर्याप्तकान्तर्मुहूर्त्तान्तर्द्रष्टव्यं, तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रम निरुपक्रमायुषां निरुपक्रम, यदा ह्यसुमान् स्वायुषस्त्रि
॥१०२॥