________________
भागे त्रिभागत्रिभागे वाजघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा आकरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनादिनाडिकान्तर्वर्त्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमा
युष्क इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि-“दंडकससत्थरजू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलण आउस्स उवकमा एते. ॥२॥” उक्तं च-"स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह | यजीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनेसङ्कटे स्थास्यति॥ १ ॥ उच्छासावधयः प्राणाः, स चोच्छासः समीरणः । समीरणाच्चलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥ २॥” इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
तंजहा-सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं
१ दण्डः कशा शस्त्रं रज्जुरनिरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतिर्भय क्षुत्पिपासा च व्याधिश्च ॥ १॥ मूत्रपुरीषनिरोधः जीर्णेऽजीर्णे च भोजने बहुशः । घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥२॥
भा.सू.१८