SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ भागे त्रिभागत्रिभागे वाजघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा आकरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनादिनाडिकान्तर्वर्त्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमा युष्क इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि-“दंडकससत्थरजू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलण आउस्स उवकमा एते. ॥२॥” उक्तं च-"स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह | यजीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनेसङ्कटे स्थास्यति॥ १ ॥ उच्छासावधयः प्राणाः, स चोच्छासः समीरणः । समीरणाच्चलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥ २॥” इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति तंजहा-सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं १ दण्डः कशा शस्त्रं रज्जुरनिरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतिर्भय क्षुत्पिपासा च व्याधिश्च ॥ १॥ मूत्रपुरीषनिरोधः जीर्णेऽजीर्णे च भोजने बहुशः । घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥२॥ भा.सू.१८
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy