________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १०१ ॥
इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह - 'काले' त्यादि, कालः - कर्त्तव्यावसरस्तद्विपरीतोऽकालः सम्यगुत्थातुम् - अभ्युद्यन्तुं शीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु काले कर्त्तव्यावसरे अकालेन तद्विपर्यासेन समुतिष्ठते - अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्त्तव्यावसरे न करोत्यन्यदा च विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकाला कालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम् — “मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, येनान्ते सुखमेधते ॥ १ ॥ " धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः काला| कालसमुत्थायी भवतीत्याह - 'संजोगही' संयुज्यते संयोजनं वा संयोगोऽर्थः - प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो | मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च- 'अठ्ठालोभी' अर्थो - रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतवोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्ध सकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरु
लोक.वि.
उद्देशकः १
॥ १०१ ॥