________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ९१ ॥
शूलरक्तास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्र पुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्म्मद्रव्यकषाया नोकर्म्मद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्म्मद्रव्यकषायाः, नोकर्म्मद्रव्यकषायास्तु बिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम्- 'किं ऐत्तो कट्ठयरं जं मूढो थाणुअम्मि आवडिओ । थाणुस्स तस्स रूसइ न अप्पणो दुष्पओगस्स ॥ १ ॥” प्रत्ययकषायाः कषायाणां ये प्रत्ययाः- यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्यययोः कार्यकारणगतो भेदः, आदेशकषायाः कृत्रिमकृतस्कुटीभङ्गादयः रसतो रसकषायः कटुतिक्तकषायपश्ञ्चकान्तर्गतः, भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजन प्रेष्याचदिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्यभूत कषायकर्मोदयात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनभेदेन भिद्यमानाः षोडशविधा भवन्ति, तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्वेमाः- “ जलेरेणु पुढ विपव्वय राईस रिसो चउव्विहो कोहो । तिणिसलयाकडडियसेलत्थंभोवमो माणो ॥ १ ॥ मायावले हिगोमुत्ति मेंढ सिंगघणवंसमूलसमा । लोभो हलिद्दकद्दमखंजणकि मिरायसामाणो ॥ २ ॥ पक्खचउमासवच्छर जावज्जीवाणुगामिणो कमसो । देवणरतिरियणारयगइ| साहणहेयवो भणिया ॥ ३ ॥ एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते तत्र नैग
१ किमेतस्मात्कष्टकरं यन्मूढः स्थाणावापतितः । स्थाणवे तस्मै रुष्यति नात्मनो दुष्प्रयोगाय ॥ १ ॥ २ जलरेणुपृथ्वीपर्वतराजी सदृशचतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः ॥ १ ॥ मायाऽवलेखिकागोमूत्रिकामेषशृङ्गघनवंशीमूलसमा । लोभो हरिद्राकर्दमखञ्जनकृमिरागसमानः ॥ २ ॥ पक्षचतुर्मासवत्सर यावज्जीवानुगामिनः क्रमशः । देवनरतिर्यमारकगतिसाधनहेतवो भणिताः ॥ ३ ॥
लोक.वि. २ उद्देशकः १
॥ ९१ ॥