________________
Mम्यक्त्वभेदात्रेधा दर्शनमोहनीयं, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दा
दयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतं, तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः ॥ तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुनपुंसकवेदहास्यरतिलोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्मणः प्रधानं कारणमिति प्रचिकटयिषुराह
संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया। _ 'संसारस्य' नारकतिर्यग्नरामरगतिसंसृतिरूपस्य(मूल)कारणमष्टप्रकारं कर्म,तस्यापि कर्मणः कषायाः-क्रोधादयो निमित्तं भवन्ति । तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाह
ते सयणपेसअत्थाइएमु अज्झत्थओ अ ठिआ ॥१८॥ . स्वजनः-पूर्वापरसंस्तुतो मातापितृश्वशुरादिकः प्रेष्यो-भृत्यादिरों-धनधान्यकुष्यवास्तुरत्नभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति गाथार्थः ॥ तदेवं कषायस्थानप्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाह
णामंठवणादविए उप्पत्ती पच्चए य आएसो। रसभावकसाए या तेण य कोहाइया चउरो ॥१८१॥ यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावासद्भावरूपा प्रतिकृतिः स्थापना, कृतभीमधूकुव्युत्कटललाट(पट)घटितत्रि
आ.सू. १६