SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) लोक.वि.२ उद्देशकः१ ॥९ ॥ णाणावरणिजं कम्मं बंधई" एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयति अट्ठविहकम्मरुक्खा सव्वे ते मोहणिजमूलागा। कामगुणमूलगं वा तम्मूलागं च संसारो॥१७८॥ . यदवादि प्राक्-'इय कम्मपायवाणं' तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणाश्चेति ?, उच्यते, अष्टविधकर्म| वृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्-आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः ॥ तदेवं पारम्पर्येण संसारकषायकामानां कारणत्वान्मोहनीय प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि"जह मत्थयसूईए, हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिजे खयं गए ॥१॥" तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात् , एतदेवाह दुविहो अहोइ मोहो दंसंणमोहो चरित्तमोहो अ । कामा चरित्तमोहो तेणऽहिगारो इह सुत्ते ॥ १७९॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात् , तथाहि-अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वस १ यथा मस्तकसूच्या हतायां हन्यते तालः । तथा कर्माणि हन्यन्ते मोहनीये क्षयं गते ॥१॥ ॥२०॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy