________________
SAISUSTASHASHASHASHISH
द्वेषतिमिरोपप्लतहष्टमनोज्ञेतरविषयोपलब्धौ सत्यां कषाया 'वर्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोद्भूत(ताः)कषायाः 'संसारे' संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह-"दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्सरिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥१॥” द्वेषं वा कर्कशशब्दादौ बजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातासर्यार्थः॥ यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ?, उच्यते, यतः कर्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह
जह सव्वपायवाणं भूमीए पइट्ठियाई मूलाई । इय कम्मपायवाणं संसारपइडिया मूला ॥ १७७॥ .. यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः॥ ननु च कथमेतच्छ्रद्धेयं-कर्मणः कषाया मूलमिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः, तथा चागम:-"जीवे णं भंते! कतिहिं ठाणेहिं णाणावरणिजं कम्मं बंधइ?, गोयमा! दोहिं ठाणेहिं, तंजहारागेण व दोसेण व । रागे दुविहे-माया लोभे य, दोसे दुविहे-कोहे य माणे य। एएहिं चउहिं ठाणेहिं वीरिओवगूहिएहिं
१जीवो भवन्त ! कतिभिः स्थानैर्ज्ञानावरणीयं कर्म बनाति?, गौतम! द्वाभ्यां स्थानाभ्यां, तद्यथा-रागेण वा द्वेषेण वा । रागो द्विविधो-माया लोभव, द्वेषो HI द्विविध:-क्रोधव मानव, एतवतुर्भिः स्थानार्योपगूदानावरणीयं कर्म बनाति.