________________
40
श्रीआचा- राङ्गवृत्तिः (शी०) ॥८९॥
लोक.वि.२ उद्देशकः१
ROGRAPHARMACHARORE
पस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वाना चेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति । गणना- स्थानमेकद्व्यादिकं शीर्षप्रहेलिकापर्यन्तं । सन्धानस्थानं द्विधा-द्रव्यतो भावतश्च, पुनरप्यकैकं द्विधा-छिन्नाच्छिन्नभेदात्, तत्र द्रव्यच्छिन्नसन्धानं कशुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोसद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभेदात् द्वेधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुध्यमानपरिणामस्यानन्तानुवन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादीपशमिकादिभावान्तरसङ्क्रान्ती सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं योगपद्येन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरतु भावविषयमित्युक्तं स्थानम् ॥ अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात् , तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयति
पंचसु कामगुणेसु य सद्दप्फरिसरसरूवगंधेसुं। जस्स कसाया वहति मूलट्ठाणं तु संसारे ॥ १७६ ॥ ा तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासी चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पश्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु 'यस्य' जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणो राम
॥८९॥