________________
स्थानं यो यत्र ग्रामगृहादौ वसति । संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि संयमस्थानानि, कियदसङ्ख-यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षान्निर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्यो|ऽग्निकायत्वेन परिणता असङ्घ यगुणाः, ततोऽपि तत्कायस्थितिरसङ्खयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्खयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्खचेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहूर्तिकत्वादन्तर्मुहूर्तसमयतुल्यान्यसङ्खयेयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्टं संयमस्थानम् , अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम् , असङ्घ चेयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्खयेयैर्जनितं षट्स्थानक, तदसङ्खयेयात्मिका श्रेणीति । प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः-ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च, तस्य स्थान प्रग्रहस्थानं, लौकिक तावत्सश्वविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात् , तद्यथा-सादिसपर्यवसानं परमाण्वादेव्यस्यैकप्रदेशादाववस्थानं जघन्यत एकं समयमुत्कृष्टतश्चासङ्खयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम् , अनादिसपर्यवसानमतीताद्धारू
मस्थानानि, यथा भवति, तद्यथा-अन, तदसोयात्मिका, तस्य स्थान प्र
द्यवाक्यो नयनितं पदस्थानमन्तचारित्रपर्यायनिष्पा, अथवा संयम