SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सत्रहव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्तमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथचिद्भावान्तर्भावानामभावाविच्छतीति गाथातापर्यार्थः ॥ तदेवं कषायाः कर्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयति___ दवे खित्ते काले भवसंसारे अ भावसंसारे । पंचविहो संसारो जत्थेते संसरति जिआ॥१८२॥ द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, नारकतिर्यग्नरामरगतिचतुर्विधानुपूर्भुदयाद्भवान्तरसङ्क्रमणं भवसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम् , एवं द्रव्यादिकः पञ्चविधः संसारः, अथवा द्रव्यादिकश्चतुर्धा संसार, तद्यथा-अश्वाद्धस्तिनं ग्रामानगरं वसन्ताद ग्रीष्म औदयिकादीपशमिकमिति गाथार्थः ॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह णामंठवणाकम्मं दब्बकम्मं पओगकम्मं च । समुदाणिरियावहियं आहाकम्मं तवोकम्मं ॥ १८३ ॥ किइकम्म भावकम्मं दसविह कम्मं समासओ होइ। नामकर्म कर्थिशून्यमभिधानमात्रं, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्म च, तत्र द्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या बध्यमाना
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy