________________
SCAUGHUGASEASOSLARARASHISHA
रम्भप्रवृत्तलोकनिश्नया विहर्त्तव्यमिति शेषः, तथा च सूत्रम्-'समुट्ठिए अणगारे' इत्यादि जाव परिव्वए' ५, षष्ठोद्देशके तु-'लोए अममिजया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातिय' गाथातापर्यार्थः॥ नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कपायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्त सामर्थ्यायातं च यनिक्षेप्तव्यं तनियुतिकारो गाथया सम्पिण्ड्याऽऽचष्टेलोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायब्वो जमूलागं च संसारो ॥१६४ ॥ ___ कण्ठ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य सं|सारतरोर्मूलम्-आद्य कारणं कषायाः-कषः-संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टेलोगोत्ति य विजअत्ति य अज्झयणे लक्खणं तु निप्फण्णं । गुणमूलं ठाणंति य पुत्तालावे य निष्फण्णं ॥१६॥