SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ८३ ॥ कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायाल्लोकविजययोनिंक्षेपमाह लोगस्स य निक्खेचो अट्ठविहो छव्विहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥ १६६ ॥ लोक्यत इति लोकः, 'लोक दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया (पा. ३-३-१९ ) निति घञ्, स च धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा - नामस्थापनाद्रव्यक्षेत्र कालभवभावपर्यवभेदात्, 'छव्विहो उ विजयस्स'त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह — 'भावे कसायलोगो'ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य यद्येवं ततः किमत आह- 'अहिगारो तस्स विजएणं'ति अधिकारो - व्यापारः, तस्य औदयिकभावकषायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः ॥ तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुपादेशि विजयश्च षोढा, तन्निक्षेपार्थमाह लोगो भणिओ दव्वं खित्तं कालो अ भावविजओ अ । भव लोग भावविजओ पगयं जह बज्झई लोगो १६७ तत्र लोकश्चतुर्विंशतिस्तचे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति, किमत्रानुपपन्नम् ?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपक श्रेणिध्यानाग्निदग्धघातिक म्र्मेन्धनेनोत्सन्न निरावरणज्ञानेन विपच्य| मानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमान स्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचा लोक.वि. २ उद्देशकः १ ॥ ८३ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy