________________
आ. सू. १३
षमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्व्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीर्यति, तथा अजिनार्थ - चित्रकव्याघ्रादीन् व्यापादयन्ति एवं मांसशोणितहृदय पित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रान खस्नाय्वस्थ्यस्थिमिञ्जादिष्वपि वाच्यं, मांसार्थ सूकरादयः, त्रिशूलालेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मनन्ति पित्तार्थं मयूरादयः, वसार्थ व्याघ्रमकरवराहादयः, पिच्छार्थं मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालार्थं चमर्यादयः, शृङ्गार्थं रुरुखङ्गादयः, तकिल शृङ्गं पवित्रमिति याज्ञिका गृहूणन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं शृगालादयःः तिमिरापहत्वात्तद्दन्तानां, दंष्ट्रार्थ वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमञ्जार्थे महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजन कलापापेक्षया घ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिस मेत्ति' हिंसितवानेषोऽस्मत्स्वजनान्सिंहः सर्पोऽरिर्वाऽतो घ्नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्त्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति ॥ एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह -
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चे आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी णेव सयं तस१ विषाणार्थं शृगालादयः, दन्तार्थ हस्त्यादयः इति प्र०, परं 'विषाणं तु शृङ्गे कोलेभदन्तयोः' इत्यनेकार्थंवचनान्नायमसुन्दरः,