________________
श्रीआचाराङ्गवृत्तिः (शी०)
शस्त्र.परिर उद्देशक-७
कायसत्थं समारंभेज्जा णेवण्णेहिं तसकायसत्थं समारंभावेज्जा णेवणे तसकायसत्थं __समारंभंते समणुजाणेज्जा, जस्सेते तसकायसमारंभा परिणाया भवंति से हु मुणी
परिणायकम्मे (सू०.५४) तिबेमि ॥ इति षष्ठ उद्देशकः ॥ प्राग्वंद्वाच्य, यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकवन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति षष्ठोद्देशकः समाप्तः॥. | उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभो|गत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते-तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिट्ठारातिदेशगी नियुक्तिकृद्गाथामाह__वाउस्सऽवि दाराइं ताई जाइं हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय ॥१६४ ॥
वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमाणोप|भोगशस्त्रेषु, चशब्दाल्लक्षणे च द्रष्टव्यमिति ।। तत्र विधानप्रतिपादनायाह
१ वदावनीयं प्र.
७३॥