________________
नुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे त्रसकायोद्देशकः, तत्र त्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाहतसकाए दाराई ताई जाइं हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १५२॥
त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दालक्षणे च प्रतिपत्तव्यमिति ॥ तत्र विधानद्वारमाह
दुविहा खलु तसजीवा लद्धितसा चेव गहतसा चेव । लद्धीय तेउवाऊ तेणऽहिगारो इहं नत्थि ॥१५३॥ | 'द्विविधा' द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्-स्पन्दनात् त्रसाः, जीवनामाणधारणाजीवाः,
सा एव जीवास्त्रसजीवाः, लब्धिनसा गतित्रसाश्च, लब्ध्या तेजोवायू त्रसौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चाभिधास्यमानत्वाद्, अतः सामर्थ्याद्गतिवसा एवाधिक्रियन्ते ॥ के पुनस्ते कियझेदा वेत्यत आह
नेरइयतिरियमणुया सुरा य गइओ चउव्विहा चेव । पजत्ताऽपज्जत्ता नेरइयाई अनायव्वा ॥१५४॥ नारका-रत्नप्रभादिमहातमःपृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यश्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदया
आ. सू. १२