________________
उद्देशक:५
श्रीआचा-पदा पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत्-सचेतनास्तरव इति ॥ एवं अध्ययन राङ्गवृत्तिः वनस्पतेश्चैतन्यं प्रदर्य तदारम्भे बन्धं तत्सरिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसजिहीर्घराह(शी०)
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिपणाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं वणस्सइसत्थं समारंभेजा जेवण्णेहि वणस्सइसत्थं समारंभावेज्जा णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु
मुणी परिण्णायकम्मे (सू० ४७) त्ति बेमि ॥ पञ्चम उद्देशकः समाप्तः ॥ 'एतस्मिन्' वनस्पती शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पती शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताः-प्रत्याख्याता भवन्तीति पूर्ववचर्चः, यावत् स एव मुनिः । परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति । शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकटीका परिसमाप्तेति ।
उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्य