SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ KHARGESSAGAROORBASANA) एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्माह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वं चक्षुर्दश्यत्वं च, द्वित्रिसङ्ख्ययासङ्घयेयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ॥ किमनन्तानामप्येवं ?, नेत्यत आहइक्कस्स दुण्ह तिण्ह व संखिजाण व न पासि सक्का । दीसंति सरीराई निओयजीवाणऽणताणं ॥ १४३ ॥ नैकादीनामसङ्खधेयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः?, अभावात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तर्युपलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादर| निगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसाता भवन्तीति, उक्तं च-"गोला य असंखेज्जा हुँति णिओआ असङ्ख्या गोले । एक्केको |य निओए अणंतजीवो मुणेयब्वो ॥१॥" एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्रा|प्रशो विधानानि सङ्ख्येयानि.योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृता योनिः, सा |च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उकं विधानद्वारम्, इदानीं परिमाणमभिधीयतेतत्र प्रथम सूक्ष्मानन्तजीवानां दर्शयितुमाह १गोलाञ्चासङ्ख्यया भवन्ति निगोदा असलचेया गोळे । एकैकच निगोदोऽनन्तजीवो मुणितव्यः ॥१॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy