________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ ५९ ॥
पत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रकं च याऽसौ बीजस्य समुच्छ्रनावस्था भूजल कालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत् शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति ॥ यत उक्तम् - "सब्वोऽवि किसलओ खलु उग्गममाणो अणन्तओ भणिओ” इत्यादि ॥ तथाऽपरं साधारणलक्षणमभिधित्सुराहचक्कागं भज्यमाणस्स गंठी चुण्णघणो भवे । पुढविसरिस भेएणं अनंतजीवं वियाणेहि ॥ १३९ ॥ यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिः- पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन | केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्यं विजानीहि ॥ तथा लक्षणान्तरमाह
गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पुण पणट्ठसंघिय अनंतजीवं वियाणाहि ॥ १४० ॥ स्पष्टार्था । एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाहसेवालकत्थभाणियअवए पणए य किंनए य हढे । एए अनंतजीवा भणिया अण्णे अणेगविहा ॥ १४१ ॥ सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ॥ सम्प्रति | प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाह
एगस्स दुण्ह तिन्ह व संखिजाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥ १४२ ॥ १ सर्वोऽपि किशलयः खलद्रच्छन्ननन्तको भणितः.
अध्ययनं १
उद्देशकः ५
॥ ५९ ॥