SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ६० ॥ पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविज्जमाणा हवंति लोया अनंता उ ॥ १४४ ॥ प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद् एवं यदि नाम कश्चित्साधारणजीवराशिं लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति ॥ इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽह जे बायर पज्जत्ता परस्स असंखभागमित्ता ते । सेसा असंखलोया तिन्निवि साहारणाणंता ॥ १४५ ॥ ये पर्याप्तकबादरनिगोदास्ते संवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्घयेय भागवर्त्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्त कजीवेभ्योऽसङ्घयेयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्घयेय लोकाकाशप्रदेशपरिमाणाः, के पुनस्त्रय इति ?, उच्यन्ते, अपर्याप्तकवादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह आहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सत्यविहाणेसु अ बहुसुं ॥ १४६ ॥ आहारः - फलपत्रकिशलयमूलकन्दत्वगादिनिर्वर्त्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं-खट्टा फलकादि, आसनम् - आसन्दकादि, यानं - शिबिकादि, युग्यं - गन्त्रिकादि, आवरणम् - फलकादि, प्रहरणं- लकुटमुसुण्ढ्यादि, शस्त्रविधानानि च बहूनि तन्निर्वर्त्त्यानि, शरदात्रखङ्ग क्षुरिकादिगण्डोपयोगित्वादिति ॥ तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह- अध्ययनं १ उद्देशक: ५ ॥ ६० ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy