________________
ARESSSSSSAGACASS
___ वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुपोह्याश्च न भवन्त्येकाकारा एव, बादराणां पुन विधाने ॥ के पुनस्ते बादरविधाने इत्यत आह__ पत्तेया साहारण वायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छव्विहा हुंति ॥१२८॥
बादराः समासतः द्विविधाः-प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तेत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः पोढा प्रत्येतव्याः॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहरुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१२९॥
वृश्चयन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिकाः-पिचुमन्दानकोशम्बशालाङ्कोल्लपीलुशलक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकविल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पा-2 सीजपाआढकीतुलसीकुसुम्भरीपिष्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्यस्तु-कुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, तृणानि तु-वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरलाकेतकीकदलीक
१ शतपत्री. प्र. २ वर्चका. प्र.