________________
-9649
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं १ उद्देशकः५
॥५६॥
कायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातक- म्र्मेति ब्रवीमीति पूर्ववत् । इति शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाप्ता॥
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये कमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वाहुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावप्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाह- . | पुढवीए जे दारा वणसइकाएऽवि हुंति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥१२६॥
यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पती द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिओपनायाहदुविह वणस्सइजीवा सुहमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ॥१२७॥
AGRICA