________________
दुष्पणिहितमनोवाकायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वाद्दण्डः प्रकर्षणोच्यते प्रोच्यते, आयुर्घतादिव्यपदेशवदिति ॥ यतश्चैवं ततः किं कर्त्तव्यमित्यत आह
तं परिणाय मेहावी इयाणिं णो जमहं पुवमकासी पमाएणं (सू० ३५) ६] 'तम्' अग्निकायसमारम्भं दण्डफलं परिज्ञाय-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां 'मेधावी' मर्यादाव्यवस्थितो वक्ष्यमा
णप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति । तमेव प्रकार दर्शयितुमाह-'इयाणी' त्यादि, यमहमग्निसमारम्भं विषयप्र
मादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्ष तमिदानी जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ॥ अन्ये ६ वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
लज्जमाणा पुढो पास-अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभइ अपणेहिं वा अगणिसत्थं समारंभावेइ अण्णे वा अगणिसत्थं समारभमाणे समणुजा