SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥५३॥ घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः-तीर्थकरास्तैवीरैरर्थतो दृष्टमेतद्गणपरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्रं संयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धमिति, अत्रोच्यते, 'अभिभूयेति अभिभवो नामादिश्चतुर्दा, द्रव्याभिभवो-रिपुसेनादिपराजयः आदित्यतेजसा वा चन्द्रग्रहनक्षत्रादितेजोऽभि-IPI उद्देशकः४ भवः, भावाभिभवस्तु परीपहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिईलनं, परीपहोपसर्गादिसेनाविजयाद्विमलं चरणं, चरणशुद्धर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते, इदमुक्तं भवतिपरीपहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति । यथाभूतैस्तैरिदमुपलब्धं तद्दर्शयति-संजएहिं' सम्यग् यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा 'सदा' सर्वकालं चरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वाद्यनवन्तस्तैः, तथा 'सदा' सर्वकालं न विद्यते प्रमादो-मद्यविषयकषायविकथानिद्राख्यो येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो दृष्टम्-उपलब्धमिति । अत्र च यलग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतत्प्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ॥ एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभाप्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह __ जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ (सू० ३४) | यो हि प्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो 'गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् ‘स
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy