________________
प्राप्तयेऽस्मिन-पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडय
न्तीति सूत्रार्थः॥१४॥ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्सरिहर्नुकाम आह
संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे
पाणे विहिंसइ (सू०१५) 'सन्ति' विद्यन्ते 'प्राणाः' सत्त्वाः 'पृथग्' पृथग्भावेन, अङ्गुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति-नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह-'लजमाणा पुढो पास'त्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसग्रामविषया, लोकोतरा सप्तदशप्रकारः संयमः, तदुक्तम्-"लज्जा दया संजम बंभचेर'मित्यादि, लजमानाः-संयमानुष्ठानपराः, यदिवा|
१ लज्जा दया संयमो ब्रह्मचर्यम्,