________________
श्रीआचा- भावपरिघून औदयिकभावोदयाप्रशस्तज्ञानादिभावविकलः, कथं विकलः?, अनन्तगुणपरिहाण्या, तथाहि-पञ्चचतुस्त्रिद्व्येके- अध्ययनं १ राङ्गवृत्तिः न्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोपन्ना इति, उक्तं च-"सर्वनिकृष्टो (शी०) जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा
उद्देशक:२ जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङमनोहभिः ॥२॥" स च विषयकषायातः प्रशस्तज्ञानघूनः किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम् ?, यतः 'अवियाणए'त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह-'अस्मिन् पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रागीते वा 'व्यथ भयचलनयो'रिति|कृत्वा व्यथितं भीतमिति, 'तत्थ तत्थे ति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्'विभिन्नेषु कार्येषूत्पन्नेषु 'पश्येति विने| यस्य लोकाकार्यप्रवृत्तिः प्रदर्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बह्वादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवच
ननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातों||Sपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखा-18॥ ३५ ॥
१ कश्चित्तु प्र. अपरो दुःसम्बोधः नास्तीदं.
RAAAAAAAAAA