SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ++* टादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यार्त्तः, भावार्त्तस्तु द्विधा - आगमतो नोआगमतश्च तत्रागमतो | ज्ञाता - आर्त्तपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादि - दुःखसङ्कटनिमग्नो भावार्त्त इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाङ्क्षित्वाद्धिताहितविचारशून्यमना भावार्त्तः कर्मोपचिनोति, यत उक्तम् - " सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ ? किं उवचिणाइ ?, गोयमा ! अड कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टाइ” एवं स्पर्शनादिष्वप्यायोजनीयम्, एवं क्रोधमानमावालो भदर्शन मोहनीयचारित्रमोहनीयादिभिर्भावार्त्ताः संसारिणो जीवा इति, उक्तं च – “रोगदो सकसाएहिं, इंदिएहि य पञ्चहिं । दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ॥ १ ॥” यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्त्तः, कः पुन|| रेवंविध इत्यत्राह-लोकयतीति लोकः- एकद्वित्रिचतुष्पञ्चेन्द्रियजीवरा शिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदर्श्याप्रशस्त भावोदयवर्त्तिना लोकेनेहाधिकारी वाच्यः, यस्माद्यावानार्त्तः स सर्वोsपि परिद्यूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्त भावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात् तत्र सचित्तद्रव्यपरिद्यूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिद्यूनो जीर्णपटादिः, १ श्रोत्रेन्द्रियवशात्त भदन्त ! जीवः किं बध्नाति ? किं चिनोति ? किमुपचिनोति ?, गौतम ! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा गाढबन्धनबद्धाः प्रकरोति, यावदनादिकमनवनतायं दीर्घाध्वानं चातुरन्तसंसारकान्तारमनुपर्यटति. २ रागद्वेष कषायैरिन्द्रियैश्च पञ्चभिः । द्विधा मोहनीयेन वा आर्त्ताः संसारिणो जीवाः ॥ १ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy