________________
मतिमा शतकम् ॥७५॥
स्वोपक्ष वृतिः
श्लो.२१
अन्यत्र प्रतिबन्धतोऽनभिमत ल्यागानुपस्थापनात्, प्रज्ञाप्ये विनयान्विते विफलता द्वेषोदया ।
सम्भवात् ॥ ११॥ ब्याख्या-'दानादा 'वेवति-दानशीलादिषु शुद्धस्थानेषु दीयमाने दानादाविव भक्तिकणि नाट्य जिनार्चादौ विभुनिषेधे विधौ च दोषादुमयतः पाशरज्जुस्थानीयान्मौनी स्यात, तथाहि-दानादिनिषेधेऽतरायभयं, तद्विधाने च पाणिवधानुमातरिति, तत्र साधूनां मौनमेव युक्तं, 'जे अदाणं पसंसंति वहमिच्छंति पाणिणं । जे अणं पडिसेहति वित्तिच्छेअं करेंति ते॥ दुहवो विते ण भासति अत्थि वा णत्यि वा पुणो। आयं रयस्स हेच्चाणं निव्वाणं पाउणति ते॥ इति सूत्रद्वचनात, तथा भतिकर्मण्यपि निषेधे भक्तिव्याघातभयं, विधौ च बहुपाणिव्यापत्तिभयमिति मौनमेवोचितमिति भावः। इति इयं गीः कुधियां कुबुदीनां मृषैव, कुतः, दुष्टे दोषवति निषेधस्थितेनिषेधव्यवस्थात, एतदपि कुतः, प्रतिबंधता, प्रतिबंधो व्याप्तिसततः, प्रतिबंधकारश्चायं-यद् यत्र येन दोषवदज्ञायते तत्तत्र तेन निषेध्यमिति निषेधार्थः पापजनकत्वमनिष्टसाधनत्वं वा, तद्यदि दोषवति न स्यात् तर्हि स्वप्रवृत्तिव्याघातदंडेन विपक्षबाधक तर्केण तद्ग्रहः। अथ दुष्टमशुद्धाहारदानं तच्च व्याख्यानशक्त्यभावेऽनुकूलमत्यनीकेन निषिध्यत इति व्यभिचारस्तत्राह, अन्यत्र विनानभिमतो यस्त्यागस्तस्यानुपस्थापनमुपस्थापनानुकूलशक्यभावस्ततः । तदुक्तमाचारेऽष्टमस्य द्वितीये-" ते फासे धीरो पुठो अहियासए अदुवा आयारगोयरमाइरके तकिया णमणेलिसं अदुवा वयगुत्तीए गोयरस्स।" इत्यादि तर्कयित्वा पुरुष कोऽयं पुरुष ? इत्यनन्यसदृशमाचक्षीत, सामर्थ्य विकलेन तु
१ प्र० श्रु० अ०११ गा०२०-२१. २ प्र० श्रु० अध्य०८ उ०२.