SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Hश्लो.१९ प्रतिमा || स्तदपेक्षया तस्य विधिर्भवत्येवानिष्टानुबन्धस्यावळत्वानयविशेषेण तदभावाद्वा तत्साम्राज्यादन्यथाहाराविरोधादिविधावगतर्वाग् स्वोपज्ञ शतकम् - विशेषे तु संप्रदायक्रम एव नियामक इतीमां तद्वंशजानां स्वामिवंशोत्पन्नानां, स्थिति मर्यादा वाह्यः शासनबाहिभूतो न कलयेत् न । वृत्तिः ॥७३॥ || जानीयात, नान्यकुलमर्यादां तद्वहिर्वर्ती जानातीत्युक्तिः ॥ १९॥ वाक्क्रमवैचित्र्यमेवोपदर्शयति- . -२० सावयं व्यवहारतोऽपि भगवान् साक्षात् किलानादिशन् ,बल्यादि प्रतिमार्चनादि गुणकृन्मीनेन संमन्यते। नत्यादि गुसदां तदाचरणतः कर्त्तव्यमाह स्फुटं, योग्येच्छामनुगृह्य वा व्रतमतश्चित्रो विभोर्वाक्क्रमः ॥ २० ॥ व्याख्या-'सावधमिति ' यत्किळ बल्यादि प्रतिमार्चनादि च व्यवहारतोऽपि स्थूलव्यवहारेणापि सावधं सावधत्व व्यपदेशविषयः, तत्साक्षात्कण्ठरवेणानादिशन् भगवान् मौनेन गुणकृत् संपन्यते, मौनाक्षिप्तविधिना तत्र प्रवर्त्तयतीत्यर्थः । अप्रमादसारो हि भगवदुपदेशोऽपुनर्बन्धकादौ खस्खौचित्येन विशेषे विश्राम्यतीति तदीयं वागतिशयविज्जम्भितं, अत एवं 'सव्वे पाणा सव्वे भूया' इत्याद्युपदेशादेव तदीयात् केचिच्चारित्रं केचिद्देशविरति केचित्केवलसम्यक्त्वं केचिच्च मद्यमांसादिविरतिं प्रतिपनवन्तः, ते ह्यप्रमादविधिशेषीभूतान् स्वस्वाचितविधीननुमाय प्रतिभया वा पतिसन्धाय तत्तदर्थेऽप्रमादमेव पुरस्कुर्वते तथा प्रवर्त्तन्ते चेत्यर्थतः सिद्धमुपदेशपदे । द्युसदा देवानां नत्यादि वन्दनादि तदाचरणतस्तदाचरणमाश्रित्य स्फुट ॥७३॥ कर्चव्यमाह, अतएवाह,-सूर्याभो देवानुपियं वन्दे इत्याधुक्तो "पौराणमेय" मित्यायुक्तं भगवता अयं च नाव्यकरणादिपर्युपास ।
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy