SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ।। ७२ ।। परिजानइ तुसिणीए संचिवइ, ततणं से सूरियाभे देवे समणं भगवं महावीरं दोचंपि तचंपि एवं वयासी, -तुन्भेणं भंते १ स जाण जाव उदभित्तए तकट्टु, समणं ३ तिरकुचो आयाहिणं पयाहिणं कर" इत्यादि । अत्रोचरं हन्त इति खेदे इयं चातुरी त्वया गुरुकुले कुत्र शिक्षिता ? यन् मौनं निषेधमेव व्यञ्जयतीति, येन कारणेन सर्वत्रापि सर्वस्मिन्नपि संप्रदाये पण्डितैः अनिषिद्धं अनुमतं स्मृतं, अतएव स्वार्थमाहारादि निष्पादयन् गृही अप्रतिषेघानुमतिप्रसङ्गभयादेव निषिध्यते, निषेधस्यानुमत्याक्षेपकत्वेऽतिप्रसङ्गादिः सोऽनुपदमेव निराकरिष्यते ।। १८ ।। तूष्णींभावे भवद्भिरपि किं बीजं वाच्यमित्याकाङ्क्षायामाह - इच्छा स्वस्य न नृत्यदर्शनविधौ स्वाध्यायभङ्गः पुनः, साधूनां त्रिदशस्य चातिशयिनी भक्तिर्भवध्वंसिनी । तुल्यायव्ययतामिति प्रतियता तूष्णीं स्थितं स्वामिना, बाह्यस्तत्प्रतिषेधको न कलयेत्तद्वंशजानां स्थितिम् ॥ १९ ॥ व्याख्या—— इच्छेति, ’ स्वस्य दर्शनविधौ नेच्छा वीतरागत्वात् साधूनां गौतमादीनां पुनर्नृत्यदर्शने स्वाध्यायभङ्गः सचानिष्टः, तेषां त्रिदशस्य सूर्याभस्य च भक्तिः भवध्वंसिनी — संसारोच्छेदिनी, तथातिशयिनी उत्कर्षवती सा च तस्य बलत्वादिष्टसाधनं इत्यमुना प्रकारेण गौतमादीनां सूर्यामस्य नृत्यमदर्शने समुदायापेक्षया तुल्याऽऽयन्ययतां समानहानिहृद्धिकलं, प्रतियता केवलज्ञानालोकेन कलयता स्वामिना श्रीवर्द्धमानस्वामिना तूष्णीं मौनेन स्थितं । प्रत्येकं तु यस्य यो भावो बलवां स्वोपज्ञ वृत्तिः श्लो. १८ - १९ ॥ ७२ ॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy