SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रतिमा इतकम् ॥६६॥ स्वोपड त्तिः श्लो.१६ विधानाच्चतुर्वर्णस्तस्य संवस्यावर्ण वदन्, यथा कोऽयं संघः यः समवायवलेन पशुसंघ इवामार्ग मार्गीकरोति, न चैतत् साधु, ज्ञानादिगुणसमुदायात्मकत्वाचस्प तेन च मार्गस्यैव मार्गीकरणादिति । तथा विपक्वं-सुपरिनिष्ठितं प्रकर्षपर्यंतमुपगतमित्यर्थः, तपश्च ब्रह्मचर्य च भवांतरे येषां विपक्वं वा उदयमागतं तपो ब्रह्मचर्य तद्धेतु देवायुकादिकर्म येषां ते तेषामवर्ण वदन्-न संत्येव देवाः कदाचनाप्यनुपलभ्यमानत्वात्, किंवा तैर्वि टैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेपैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्वेत्यादिकं, इहोत्तरं-संति देवास्तवकृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोइसातकर्मोदयादित्यादि, अभिहितं च-इत्थ पसिद्धी मोहणीय, सायवेयणीय,कम्मउदयायो। कामपवित्ताविरई, कम्मोदयओच्चियणसिं ।। अणिमिसदेवसहावा, णिच्चेठाणुत्तराओ कयकिच्चा । कालणुभावातित्थुन्नइंपि अनत्यकुब्दांतत्ति ।। यत्तु महाजननेतृत्वाद्देवराजादिवद्देवानामवर्णवादो महामोहनीयवंधहेतुत्वानिषिद्धो न धर्मित्वादिति पामरवचनं, तत्तुनलं, एवं सत्यस्वमूत्रस्यार्थ(स्थ)सिद्धानुवादत्वापत्तेदेवमात्रावर्णनिषेधे उक्तविशेषणानुपपत्तेश्च, यत्र हि यत्मकार कवर्णवादइष्टसाधनतयोपदार्शनस्तत्रतत्मकारकवर्णवादग्रहप्रतिबंधक दोषनरूपस्यैवावर्णवादस्य निषेध उचित इत्युक्तविशेषणं फलवन् , विपक्वतपोब्रह्मचर्यफलीभूतदेवार्चनविनयशीलादिगुण पतिपथिदोषोपदर्शनस्यैव ततो दुर्लभवोधिताहेतुत्वलाभात् , अत एवैतत्पतिपक्षमूत्र-'यथा-'पंचहि ठाणेहिं जीवा मुलहबोहिताए कम्मं पकरेंति, नं०-अरहंताणं वनं वयमाणे, जान विपकतवभनेराणं देवाणं वनवयमाणेत्ति,' अईतां वर्णवादो यथा| [येषां]-"जियरागदोसमोहा, सवण्णुतियसनाहायपूषा अच्चंतसञ्चबयणा, सिवगइगमणाजयंति जिणा ॥" अईत्मणीतधर्मवर्णो यथा--" वत्थुपयासणगे, अइसयरयणाण सागरो जयइ । सव्वजयजीवबंधुर-----बंधु दुबिहावि जिणधम्मो ॥” आचार्यवर्ण ॥६६॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy