________________
प्रतिमा परकम ॥६५॥
ते गुणाश्च तैरन्वितान् युतान् सम्यग्दशः सुरानपि, ये गुरुकुलाद्मष्टास्त्यक्तगुरुकुलवासा यथाच्छंदाः यथाच्छंदविहारिणो स्वोपण जिनार्चाद्विषो जिनप्रतिमापूजादौ धृतद्वेषा लुपाकश्वपाका, विधर्मणः विगतो धर्मो येभ्यस्ते विधर्माणस्तादृशान्मन्यतेस्म । तेऽनयाऽवर्णवादरूपयाशातनया स्थानांगे प्रतिषिद्धयाऽकर्तव्यत्वेनोक्तया विहितया प्रसन्न कृतया मातंगवञ्चांडालवत् सर्वतः सर्वस्मादा-हलो.१६ ह्यतां लेमिरे । अनयाशातनया तैः कर्मचंडालत्वं प्राप्तमिति व्यंगग्यि]प्रतीतेः, 'पर्यायोक्तव्यंग[ग्य]स्योक्तिः पर्यायोक्त'मिति हैमवचनाद, देवाशातनयेत्यनंतरमिव शब्दोल्लेखे तेषां सर्वतो बाहतायां हेतोरुत्प्रेक्षणात् गम्योत्प्रेक्षा चेति ध्येयं, स्थानांगसूत्रं चेदं-'पंचहिठाणेहिं जीवा दुल्लहबोहिअत्ताए कम्मं पकरेंति, तं०-अरहताणं अवनं वयमाणे, अरहंतपमत्तस्स धम्मस्स अवनं चयमाणे, आयरियउवज्ञायाणं अवनं वयमाणे, चाउवनस्स समणसंघस्स अवनं वयमाणे, विवक्तवबंभचेराणं देवाणं अवत्रं वयमाणे'त्ति, दुर्लभा बोधिर्जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दर्लभबोधितया तस्यै वा. कर्म मोहनीयादि प्रकुर्वति बनति, अर्हतामवऐमश्लाघांवदन् यथा-'नत्थि अरहंतत्तं, जाणं वा कीस भुंजएभोए। पाइडियं उवजीवइ (प्राभृतिकांसमवसरणादिरूपां) एमाइजिजाणो अवनो। न च ते नाभूवंस्तत्मणीतप्रवचनोपलब्धेर्नापि भोगानुभवनादि दोषः अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च | निर्जरणोपायत्वात्तस्य तथा वीतरागत्वेन समवसरणादिषु प्रतिबंधाभावादिति । तथाईत्मज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत्, तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्ण वदन् उत्तरंचात्र प्राकृतभाषात्वं श्रुतस्य न दुष्ठं, बालादीनां सुखाध्ययनोपकारित्वात, तथा-चारित्रमेव श्रेयोनिर्वाणस्यानंतरहेतुत्वादिति । आचार्योपाध्यायानामवर्ण वदन् यथा-बालोऽयमित्यादि, न च बालवादिदोषो, बुख्यादिभिबृहत्त्वादिति। तथा चत्वारोवर्णाः श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाण् ।
६५॥
wwwx