________________
अतिमा शतकम्. ६३ ।।
www.www
मिथ्यादृष्टिसंस्तवपरित्यागपूर्वकसंघ चैत्यादिभक्तिकृत्यपरायणस्य भवति, अप्राधान्ययोग्यत्वार्थभेदेन द्रव्याज्ञापदमवृत्तेर्प्रथिकसत्वा पुनर्बंध कयोर्यथायोगमुपदेशपदे व्यवस्थापनात्तदाह - 'गंग्गिसत्ता पुणबंधगाइ आणंतुदव्त्र ओआणा । णवरमिहदव्वसदो, भइअव्यो सुत्तणीईए' || 'एगोअप्पाहने, केवलएचेव वढ्इ तत्थ । अंगारमदगो जह, दव्वायरिओ सयाभव्वो' त्ति । तद्यथोदित भगवदर्चादिपरायणानां ज्योतिष्क विमानाधिपतीनामप्यं ततः केषांचिदपुनर्वेधकतयापि द्रव्यसम्वत्वमविरूद्धमेव, तद्दशायांचेषन्मालिन्यभागिविभगज्ञानसंभवे यथोक्तं संख्यापूर्त्ते न किंचिद्वाधकं पश्यामः, रुचिसाम्येऽपि केवलिंगम्यस्य भावभेदस्यावश्याश्रयणीयत्वात्, क्रियासाम्येऽपि संयतादीनां सम्यक्त्वाकर्षान्यथानुपपत्तेः ननु पूजास्तावत्समंतभद्राः सर्वमंगलाः सर्वसिद्धिफलाः योगत्रयोत्कर्षभेदभिन्नाः क्रमेणावंचकयोगत्रयवतामविरतसम्यग्दृष्टयुत्तरगुणधारिपरम श्रावकाणां प्रतिपादिता, स्तदुक्तं विंशिकायांपढमा पढमा वंचक - जोगेणं होइ सम्मदिविस्स । इयर इयरजोगेणं उत्तरगुणधारिणो णेया ॥ तइआ तइआवंचक-जोगेणं परमावस्व । जोगा य समाहीहिं, साहुजुग किरिय फलकरणा ॥ तथा च विभंगज्ञाने मिध्यात्ववीजसद्भावे कथं सुराणां पूजासंभवो विना देवस्थितिमिति चेन्न, अपुनर्बंधकानामपि चैत्यवंदनादिक्रियाधिकारित्वस्य पंचाशकादौ व्यवस्थापितत्वात् संप्राप्तवीParti भगवदचार्या भावमार्ग प्रापकत्वस्य महापथविशोधकत्वस्य च विंशिकायामेवोक्तत्वाच्च, तथाहि - 'पढमकरणभेएणं, गठियसन्नस्स धम्ममित्तफला । साहुज्जुगाइभावो, जायइतहनाणुबंधु' ति । 'भवद्वि भंगो एसो, तहय महापहविसोहणो परमो । णियविरियसमुल्लासो, जायइ संपन्नची अस्स' || इत्यादि । किंबहुना विधिवत्प्रतिमाद्यर्चनरूपद्रव्यक्रियैव दर्शनाचाररूपा देवानां द्रव्यसम्यक्त्वं समितिगुप्त्यादिचारित्राचाररूपैव द्रव्यचारित्रमिति प्रतिपत्तव्यं, भावोपबृंहकत्वात् गुणदृद्धृयमतिपातोपयोगादाकर्षे तु ॥ ६३॥
स्वोपज्ञ चिः
श्लो. १०