________________
जातेमा शतकम्. ॥६२ ॥
www.wimmer. www.m
तत्र परमार्थापरिज्ञानेऽपि भगवद्वचनतस्वरुचिराद्यं, परमार्थपरिज्ञानं च द्वितीयं तदाह - ' तुझ्वयणवत्तरुई, परमत्थमयाणओवि दव्वगयं । इहरं पुण तुह समए, परमत्थावगगमओ होई' त्ति, परमार्थपरिज्ञानेन च यदोत्तरोत्तरात्कर्षमासादयतां स्वविषयद्धायां भावसम्यक्त्वव्यपदेशः क्रियते तदाघस्तनपरिज्ञानजनितश्रद्धायां द्रव्यसम्यक्त्वव्यपदेशो भवति, अत एवाविविक्तषट् कायपरिज्ञानेऽपि चरणकरणतत्वपरिज्ञानपूर्वक तत्पालनेऽपि च स्याद्वादेन विविक्तषट्कायपरिज्ञानं विना स्वसमयपरसमय विवेचनं विना चौघतस्तद्रागमात्रेण द्रव्यसम्यक्त्वं संमतौ निर्णीतं, तदाह - 'छप्पियजीव निकाए, सद्दहमाणो ण सद्दहइ भावा । हंदी अपज्जवेसु, सद्दहणा होइ अविभत्ता । ' ' चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा। चरणकरणस्स सारं, णिच्छयसुद्धं ण याणंती' त्यादि, एवं अविविक्तेन देवगुरुधर्मश्रद्धानेन नवतन्वश्रद्धानेन गुरुपारतंत्र्यादिना च द्रव्यसम्यकत्वमेव व्यपदिशति श्रुतवृद्धाः । यदारोपणपूर्वं चारित्रारोपणमपि सफलतामास्कंदेत् - यदाहुः 'गुरुपारतंतनाणं' इत्यादि, एताशानि च द्रव्यसम्यक्त्वानि शुभात्मपरिणामविशेषानुगतानि भावसम्यकत्वरूपमपि न व्यभिचरंति, अर्पितानर्पित सिद्धेरुभयरूपाविरोधात्, अतएव रुचिभेदा अपि द्रव्यसम्यकत्वरूपेणभासमाना अपि क्षायोपशमिकादि भेदेष्वेवांतर्भाविता वाचकचक्रवर्तिना प्रज्ञप्तौ तथाहि - 'किंचेडु वाइभेया, दसहावेयं परूविअंसमए । ओहेणतंपिमेसिं, भेआणमभिन्नरूवं तु'त्ति । न चैते श्रुतोक्तत्वान्निरूपचरितभावसम्यक्त्वभेदा एवं भविष्यतीति शंकनीयं, रागादिरहितोपयोगरूपभावसम्यक्त्व लक्षणाव्याप्तेः, 'दसविदे सरागसम्मदंसणे पं०, तं-णिसग्गुवएस रुई' त्यादिस्थानांगवचनेन तेषां रागानुगतत्वप्रतिपादनात् मोक्षमार्गे च वीतरागस्यैव भेदस्य ग्रहणौचित्यात्, तदयमपेक्षयैव द्रव्यभावविभागोभावनीयः । केवलं द्रव्यसम्यक्त्वं त्वपुनर्वेधकस्यैव लोकोत्तरबीजपरिग्रहवशो
॥॥ ६२!
स्वोपन
चि
श्लो. १५